GP:प्रवचनसार - गाथा 75 - तत्त्व-प्रदीपिका
From जैनकोष
अथ पुण्यस्य दु:खबीजविजयमाघोषयति -
अथ ते पुनस्त्रिदशावसाना: कृत्स्नसंसारिण: समुदीर्णतृष्णा: पुण्यनिर्वर्तिताभिरपि तृष्णाभिर्दु:खबीजतयाऽत्यन्तदु:खिता: सन्तो मृगतृष्णाभ्य इवाम्भांसि विषयेभ्य: सौख्यान्यभिलषन्ति । तद्दु:खसंतापवेगमसहमाना अनुभवन्ति च विषयान् जलायुका इव, तावद्यावत् क्षयं यान्ति ।
यथा हि जलायुकास्तृष्णाबीजेन विजयमानेन दु:खाङ्कुरेण क्रमत: समाक्रम्यमाणा दुष्टकीलालमभिलषन्त्यस्तदेवानुभवन्त्यश्चाप्रलयात् क्लिश्यन्ते, एवममी अपि पुण्यशालिन: पापशालिन इव तृष्णाबीजेन विजयमानेन दु:खाङ्कुरेण क्रमत: समाक्रम्यमाणा विषयानभिलषन्तस्तानेवानुभवन्तश्चाप्रलयात् क्लिश्यन्ते ।
अत: पुण्यानि सुखाभासस्य दु:खस्यैव साधनानि स्यु: ॥७५॥