GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 39 - समय-व्याख्या
From जैनकोष
आत्मनश्चैतन्यानुविधायी परिणाम उपयोग: । सोऽपि द्विविध:—ज्ञानोपयोगो दर्शनोपयोगश्च । तत्र विशेषग्राहि ज्ञानं, सामान्यग्राहि दर्शनम् । उपयोगश्च सर्वदा जीवादपृथग्भूत एव, एकास्तित्वनिर्वृत्तत्वादिति ॥३९॥