GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 50-51 - समय-व्याख्या
From जैनकोष
दृष्टांतदार्ष्टान्तिकार्थपुरस्सरो द्रव्यगुणानामनर्थांतरत्वव्याख्योपंसहारोऽयम् । वर्णरसगंधास्पर्शा हि परमाणो: प्ररूप्यंते; ते च परमाणोरविभक्तप्रदेशत्वेनानन्येऽपि संज्ञादिव्यपदेशनिबंधनैर्विशेषैरन्यत्वं प्रकाशयन्ति । एवं ज्ञानदर्शने अध्यात्मनि संबद्धे आत्मद्रव्यादविभक्तप्रदेशत्वेनानन्येऽपि संज्ञादिव्यपदेशनिबंधनैर्विशेषै: पृथक्त्वमासादयत; स्वभावस्तु नित्यमपृथक्त्वमेव बिभ्रत: ॥५०-५१॥