GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 68 - समय-व्याख्या
From जैनकोष
कर्मसंयुक्तत्वमुखेन प्रभुत्वगुणव्याख्यानमेतत् ।
एवमयमात्मा प्रकटितप्रभुत्वशक्ति : स्वकैः कर्मभिर्गृहीतकर्तृत्वभोक्तृत्वाधिकारोऽनादिमोहावच्छन्नत्वादुपजातविपरीताभिनिवेशः प्रत्यस्तमितसम्यग्ज्ञानज्योतिः सान्तमनन्तं वा संसारं परिभ्रमतीति ॥६८॥