GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 23 - समय-व्याख्या
From जैनकोष
अत्रास्तिकायत्वेनानुक्तस्यापि कालस्यार्थापन्नत्वं द्योतितम् । इह हि जीवानां पुद्गलानां च सत्तास्वभावत्वादस्ति प्रतिक्षणमुत्पादव्ययध्रौव्यैकवृत्तिरूप: परिणाम: । स खलु सहकारिकारणसद्भावे दृष्ट:, गतिस्थित्यवगाहपरिणामवत् । यस्तु सहकारिकारणं स काल: । तत्परिणामान्यथानुपपत्तिगम्यमानत्वादनुक्तोऽपि निश्चयकालोऽस्तीति निश्चीयते । यस्तु निश्चयकालपर्यायरूपो व्यवहारकाल: स जीवपुद्गलपरिणामेनाभिव्यज्यमानत्वात्तदायत्त एवाभिगम्यत एवेति ॥२३॥