GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 76 - समय-व्याख्या
From जैनकोष
परमाणुव्याख्येयम् ।
उक्तानां स्कन्धरूपपर्यायाणां योऽन्त्यो भेदः स परमाणुः । स तु पुनर्विभागा-भावादविभागी, निर्विभागैकप्रदेशत्वादेकः, मूर्तद्रव्यत्वेन सदाप्यविनश्वरत्वान्नित्यः, अनादिनिधनरूपादिपरिणामोत्पन्नत्वान्मूर्तिभवः, रूपादिपरिणामोत्पन्नत्वेऽपि शब्दस्य परमाणुगुणत्वाभावात्पुद्गलस्कन्धपर्यायत्वेन वक्ष्यमाणत्वाच्चाशब्दो निश्चीयत इति ॥७६॥