GP:प्रवचनसार - गाथा 156 - तत्त्व-प्रदीपिका
From जैनकोष
अथात्र क उपयोग: परद्रव्यसंयोगकारणमित्यावेदयति -
उपयोगो हि जीवस्य परद्रव्यसंयोगकारणमशुद्ध: । स तु विशुद्धिसंक्लेशरूपोपरागवशात् शुभाशुभत्वेनोपात्तद्वैविध्य:, पुण्यपापत्वेनोपात्तद्वैविध्यस्य परद्रव्यस्य संयोगकारणत्वेन निर्वर्तयति । यदा तु द्विविधस्याप्यस्याशुद्धस्याभाव: क्रियते तदा खलूपयोग: शुद्ध एवावतिष्ठते । स पुनरकारणमेव परद्रव्यसंयोगस्य ॥१५६॥