• जैनकोष
    जैनकोष
  • Menu
  • Main page
    • Home
    • Dictionary
    • Literature
    • Kaavya Kosh
    • Study Material
    • Audio
    • Video
    • Online Classes
    • Home
    • Dictionary
    • Literature
    • Kaavya Kosh
    • Study Material
    • Audio
    • Video
    • Online Classes
    • What links here
    • Related changes
    • Special pages
    • Printable version
    • Permanent link
    • Page information
    • Recent changes
    • Help
    • Create account
    • Log in

जैन शब्दों का अर्थ जानने के लिए किसी भी शब्द को नीचे दिए गए स्थान पर हिंदी में लिखें एवं सर्च करें

 Actions
  • Page
  • Discussion
  • View source
  • View history

स्वप्नातिचार

From जैनकोष

भगवती आराधना / विजयोदयी टीका / गाथा 612/812/6

उपयुक्तोऽपि सम्यगतिचारं न वेत्ति सोऽनाभोगकृत व्याक्षिप्तचेतसा वा कृतः। नदीपूरः, अग्न्युत्थापनं, महावातापातः, वर्षाभिघातः, परचक्ररोध इत्यादि का आपाताः। रोगार्तः शोकार्तो, वेदनार्तः इत्यार्तता त्रिविधाः। रसासक्तता मुखरता चेति द्विप्रकारता तित्तिणदाशब्दवाच्या। सचित्तं किमचित्तमिति शंकिते द्रव्ये भंजनभेदनभक्षणाभिराहारस्योपकरणस्य, वसतेर्वा उद्गमादिदोषोपहतिरस्ति न वेति शंकायामप्युपादानम्। अशुभस्य मनसो वाचो वा झटिति प्रवृत्तिः सहसेत्युच्यते। एकांतायां वसतौ व्यालमृगव्याघ्रादयस्स्तेना वा प्रविशंति इति भयेन द्वारस्थगने जातोऽतिचारस्तीव्रकषायपरिणामः प्रदोष इत्युच्यते। उदकराज्यादिसमानतया प्रत्येक चतुर्विकल्पाश्चत्वारः कषायाः। आत्मनश्चापरस्य वा बललाघवादिपरीक्षा मीमांसा तत्र जातोऽतिचारः। प्रसारितकराकुंचितम्, आकुंचितकरप्रसारणम्, धनुषाद्यारोपणं, उपलाद्युत्क्षेपणं, बाधनं, वृतिकंठकाद्युल्लंघनं, पशुसर्पादीनां मंत्रपरीक्षणार्थं धारणं औषधवीर्यपरोक्षणार्थमंजनस्य चूर्णस्य वा प्रयोगः द्रव्यसंयोजनया त्रसानामेकेंद्रियाणां च समूर्च्छना परीक्षा। अज्ञानामाचरणं दृष्ट्वा स्वयमपि तथा चरति तत्र दोषानभिज्ञः। अथवाज्ञानिनोपनीतमुद्गमादिदोषोपहतं उपकरणादिकं सेवते इति अज्ञानात्प्रवृत्तोऽतीचारः। शरीरे, उपकरणे, वसतौ, कुले, ग्रामे, नगरे, देशे, बंधुषु, पार्श्वस्तेषु वा ममेदभावः स्नेहस्तेन प्रवर्तित आचारः। मम शरीरमिदं शीतो वातो बाधयति, कटादिभिरंतर्धानं, अग्निसेवा, ग्रीष्मातपनोदनार्थं प्रावरणग्रहणं वा, उद्वर्तनं वा। उपकरणं विनस्यतीति तेन स्वकार्याकरणं यथा पिच्छविनाशभयादप्रमार्जनं इत्यादिकम्। म्रक्षणं, तैलादिना कमंडल्वादीनां प्रक्षालनं वा, वसतितृणादिभक्षणस्य भंजनादेर्वा ममतया निवारणं, बहूनां यतीनां प्रवेशनं मदीयं कुलं न सहते, इति भाषणं, प्रवेशे कोपः, बहूनां न दातव्यमिति निषेधन, कुलस्यैव वैयावृत्त्यकरणम्। निमित्ताद्यु पदेशश्च तत्र ममतया ग्रामे नगरे देशे वा अवस्थानानिषेधनम्। यतीनां संबंधिनां सुखेन सुखमात्मनो दुःखेन दुःखमित्यादिरतिचारः। पार्श्वस्थानां वंदना, उपकरणादिदानं वा। तदुल्लंघनासमर्थता। गुरुता, ऋद्धित्यागासहता, ऋद्धिगौरवं, परिवारे कृतादरः। परकीयमात्मसात्करोति प्रियवचनेन उपकरणदानेन। अभिमतरसात्यागोऽनाभिमतानादरश्च नितरां रसगौरवम्। निकामभोजने, निकामशयनादौ वा आसक्तिः सातगौरवम्। अनात्मवशतया प्रवर्तिताचारः। उन्मादेन, पित्तेन पिशाचदेशेन वा परवशता। अथवा ज्ञातिभिः परिगृहीतस्य बलात्कारेण गंधमाल्यादिसेवा प्रत्याख्यातभोजनं, मुखवासतांबूलादिभक्षणं वा स्तीभिर्नपुंसकैर्वा बलादब्रह्मकरण्। चतुर्षु स्वाध्यायेषु आवश्यकेषु वा आलस्यम्। उबधिशब्देन मायोच्यते प्रच्छन्नमनाचारे वृत्तिः। ज्ञात्वा दातृकुलं पूर्वमन्येभ्यः प्रवेशः। कार्यापदेशेन यथा परे न जानंति तथा वा। भद्रकं भुक्त्वा विरसमशनं भुक्तमिति कथनम्। ग्लानस्याचार्यादेर्वा वैयावृत्त्यं करिष्यामि इति किंचिद्गृहीत्वा स्वयं तस्य सेवनम्। स्वप्ने वायोग्यसेवा सुमिणमित्युच्यते। द्रव्यक्षेत्रकालभावाश्रयेण प्रवृत्तस्यातिचारस्यान्यथा कथनं पालिकुंचनशब्देनोच्यते। कथं, सचित्तसेवांकृत्वा अचित्तं सेवितमिति। अचित्तं सेवित्वा सचित्तं सेवितमिति वदति। तथा स्वावस्थाने कृतमध्वनि कृतमिति, सुभिक्षे कृत दुर्भिक्षे कृतमिति, दिवसे कृतं रात्रौ कृतमिति, अकषायतया संपादितं तीव्रक्रोधायिना संपादितमिति। यथावत्कृतालोचनो यतिर्यावत्सूरिः प्रायश्चित्तं प्रयच्छति, तावत्स्वयमेवेदं मम प्रायश्चित्तम् इति स्वयं गृह्णाति स स्वयं शोधकः। एवं मया स्वशुद्धिरनुष्ठितेति निवेदनम्

1. ......। 23. स्वप्नातिचार - स्वप्न में अयोग्य पदार्थ का सेवन होना उसको सुमिण (स्वप्न) कहते हैं। .....है ऐसा कथन जानना।

अधिक जानकारी के लिये देखें अतिचार - 3।


पूर्व पृष्ठ

अगला पृष्ठ

Retrieved from "https://www.jainkosh.org/w/index.php?title=स्वप्नातिचार&oldid=132317"
Categories:
  • स
  • चरणानुयोग
JainKosh

जैनकोष याने जैन आगम का डिजिटल ख़जाना ।

यहाँ जैन धर्म के आगम, नोट्स, शब्दकोष, ऑडियो, विडियो, पाठ, स्तोत्र, भक्तियाँ आदि सब कुछ डिजिटली उपलब्ध हैं |

Quick Links

  • Home
  • Dictionary
  • Literature
  • Kaavya Kosh
  • Study Material
  • Audio
  • Video
  • Online Classes

Other Links

  • This page was last edited on 29 February 2024, at 14:36.
  • Privacy policy
  • About जैनकोष
  • Disclaimers
© Copyright Jainkosh. All Rights Reserved
  • Powered by MediaWiki