GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 161 - समय-व्याख्या
From जैनकोष
सर्वस्यात्मनः संसारिणो मोक्षमार्गार्हत्वनिरासोऽयम् ।
इह हि स्वभावप्रातिकूल्याभावहेतुकं सौख्यम् । आत्मनो हि द्रशि-ज्ञप्ती स्वभावः । तयोर्विषयप्रतिबन्धः प्रातिकूल्यम् । मोक्षे खल्वात्मनः सर्वं विजानतःपश्यतश्च तदभावः । ततस्तद्धेतुकस्यानाकुलत्वलक्षणस्य परमार्थसुखस्य मोक्षेऽनुभूति-रचलिताऽस्ति । इत्येतद्भव्य एव भावतो विजानाति, ततः स एव मोक्षमार्गार्हः ।नैतदभव्यः श्रद्धत्ते, ततः स मोक्षमार्गानर्ह एवेति । अतः कतिपये एव संसारिणोमोक्षमार्गार्हा, न सर्व एवेति ॥१६१॥