GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 2 - समय-व्याख्या
From जैनकोष
समयो ह्यागम: । तस्य प्रमाणपूर्वकमात्मनाभिधानमत्र प्रतिज्ञातम् । युज्यते हि स प्रणन्तुमभिधातुं चाप्तोपदिष्टत्वे सति सफलत्वात् । तत्राप्तोपदिष्टत्वमस्य श्रमणमुखोद्गतार्थत्वात् । श्रमणा हि महाश्रमणा: सर्ववीतरागा: । अर्थ: पुनरनेकशब्दसम्बन्धेनाभिधीयमानो वस्तुतयेकोऽभिधेय: । सफलत्वं तु चतसृणां नारकतिर्यग्मनुष्यदेवत्वलक्षणानां गतीनां निवारणत्वात् पारतंत्र्यनिवृत्तिलक्षणस्य निर्वाणस्य शुद्धात्मतत्त्वोपलम्भरूपस्य परम्परया कारणत्वात् स्वातंत्र्यप्राप्तिलक्षणस्य च फलस्य सद्भावादिति ॥२॥