GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 3 - समय-व्याख्या
From जैनकोष
अत्र शब्दज्ञानार्थरूपेण त्रिविधाऽभिधेयता समयशब्दस्य लोकालोकविभागश्चाभिहित: । तत्र च पंचानामस्तिकायानां समो मध्यस्थो रागद्वेषाभ्यामनुहतो वर्णपदवाक्यसन्निवेशविशिष्ट: पाठो वाद: शब्दसमय: शब्दागम इति यावत् । तेषामेव मिथ्यादर्शनोदयोच्छेदे सति सम्यगवाय: परिच्छेदो ज्ञानसमयो ज्ञानागम इति यावत् । तेषामेवाभिधानप्रत्ययपरिच्छिन्नानां वस्तुरूपेण समवाय: संघातोऽर्थसमय: सर्वपदार्थ सार्थ इति यावत् । तदत्र ज्ञानसमयप्रसिद्धार्थं शब्दसमयसम्बन्धेनार्थसमयोऽभिधातुमभिप्रेत: अथ तस्यैवार्थसमयस्य द्वैविध्यं लोकालोकविकल्पात् । स एव पञ्चास्तिकायसमवायो यावांस्तावाल्लोकस्तत: परममितोऽनन्तो ह्यलोक:, स तु नाभावमात्रं किन्तु तत्समवायातिरिक्तपरिमाणमनन्तक्षेत्रं खमाकाशमिति ॥३॥