GP:पंचास्तिकाय संग्रह-सूत्र - गाथा 9 - समय-व्याख्या
From जैनकोष
अत्र सत्ताद्रव्ययोरर्थान्तरत्वं प्रत्याख्यानाम् । द्रवति गच्छति सामान्यरूपेण स्वरूपेण व्याप्नोति तांस्तान् क्रमभुव: सहभुवश्च सद᳭भावपर्यायान् स्वभावविशेषानित्यनुगतार्थया निरुक्त्या द्रव्यं व्याख्यातम् । द्रव्यं च लक्ष्यलक्षणभावादिभ्य: कथञ्चिद᳭भेदेऽपि वस्तुन: सत्ताया अपृथग्भूतमेवेति मन्तव्यम् । ततो यत्पूर्वं सत्त्वमसत्त्वं त्रिलक्षणत्वमत्रिलक्षणत्वमेकत्वमनेकत्वं सर्वपदार्थस्थितत्वमेकपदार्थस्थितत्वं विश्वरूपेत्वमेकरूपत्वमनन्तपर्यायत्वमेकपर्यायत्वं च प्रतिपादितं सत्तायास्तत्सर्वं तदनर्थान्तरभूतस्य द्रव्यस्यैव द्रष्टव्यम् । ततो न कश्चिदपि तेषु सत्ताविशेषोऽवशिष्येत य: सत्तां वस्तुतो द्रव्यात्पृथक् व्यवस्थापयेदिति ॥९॥