GP:प्रवचनसार - गाथा 119 - तत्त्व-प्रदीपिका
From जैनकोष
अथ जीवस्य द्रव्यत्वेनावस्थितत्वेऽपि पर्यायैरनवस्थितत्वं द्योतयति -
इह तावन्न कश्चिज्जयते न म्रियते च । अथ च मनुष्यदेवतिर्यङ्नारकात्मको जीवलोक: प्रतिक्षणपरिणामित्वादुत्संगतिक्षणभङ्गोत्पाद: । न च विप्रतिषिद्धमेतत्, संभवविलययोरेकत्व-नानात्वाभ्याम् । यदा खलु भङ्गोत्पादयोरेकत्वं तदा पूर्वपक्ष:, यदा तु नानात्वं तदोत्तर: ।
तथाहि - यथा य एव घटस्तदेव कुण्डमित्युक्ते घटकुण्डस्वरूपयोरेकत्वासंभवात्तदुभया-धारभूता मृत्तिका संभवति, तथा य एव संभव: स एव विलय इत्युक्ते संभवविलयस्वरूपयोरेक-त्वासंभवात्तदुभयाधारभूतं ध्रौव्यं संभवति । ततो देवादिपर्याये संभवति मनुष्यादिपर्याये विलीयमाने च य एव संभव: । स एव विलय इति कृत्वा तदुभयाधारभूतं ध्रौव्यवज्जीवद्रव्यं संभाव्यत एव । तत: सर्वदा द्रव्यत्वेन जीवष्टङ्कोत्कीर्णोऽवतिष्ठते ।
अपि च यथाऽन्यौ घटोऽन्यत् कुण्डमित्युक्ते तदुभयाधारभूताया मृत्तिकाया अन्यत्वा-संभवात् घटकुण्डस्वरूपे संभवत:, तथान्य: संभवोऽन्यो विलय इत्युक्ते तदुभयाधारभूतस्य ध्रौव्यस्यान्यत्वासंभवविलयस्वरूपे संभवत: । ततो देवादिपर्याये संभवति मनुष्यादिपर्याये विलीयमाने चान्य: संभवोऽन्यो विलय इति कृत्वा संभवविलयवन्तौ देवादिमनुष्यादिपर्यायौ संभाव्येते । तत: प्रतिक्षणं पर्यायैर्जीवोऽनवस्थित: ॥११९॥