GP:रत्नकरंड श्रावकाचार - श्लोक 25 - टीका
From जैनकोष
आहु ब्रुवन्ति । कम् ? स्मयम् । के ते ? गतस्मया: नष्टमदा: जिना: । किं तत् ? मानित्वं गर्वित्वम् । किं कृत्वा ? अष्टावाश्रित्य । तथा हि ज्ञानमाश्रित्य ज्ञानमदो भवति एवं पूजां कुलं जातिं बलम् ऋद्धिमैश्वर्यं तपो वपु: शरीरसौन्दर्यमाश्रित्य पूजादिमदो भवति । ननु शिल्पमदस्य नवमस्य प्रसक्तेरष्टाविति सङ्ख्यानुपपन्ना इत्यप्ययुक्तं तस्य ज्ञाने एवान्तर्भावात् ॥२५॥