GP:रत्नकरंड श्रावकाचार - श्लोक 30 - टीका
From जैनकोष
शुद्धदृष्टयो निर्मलसम्यक्त्वा: न कुर्यु: । कम् ? प्रणामम् उत्तमाङ्गेनोपनतिम् । विनयं चैव करमुकुलप्रशंसादिलक्षणम् । केषाम् ? कुदेवागमलिङ्गिनाम् । कस्मादपि ? भयाशास्नेहलोभाच्च भयं राजादिजनितम्, आशा च भाविनोऽर्थस्य प्राप्त्याकाङ्क्षा, स्नेहश्च मित्रानुराग:, लोभश्च वर्तमानकालेऽर्थप्राप्तिगृद्धि: भयाशास्नेहलोभं तस्मादपि। च शब्दोऽप्यर्थ: ॥३०॥