GP:रत्नकरंड श्रावकाचार - श्लोक 37 - टीका
From जैनकोष
ये दृष्टिविशिष्टा: सम्यग्दर्शनोपेता । जिनेन्द्रभक्ता: प्राणिनस्ते स्वर्गे । अमराप्सरसां परिषदि देवदेवीनां सभायाम् । चिरं बहुतरं कालं । रमन्ते क्रीडन्ति । कथम्भूता: ? अष्टगुणपुष्टितुष्टा: अष्टगुणा अणिमा, महिमा, लघिमा, प्राप्ति:, प्राकाम्यम्, ईशित्वं, वशित्वं, कामरूपित्वमित्येतल्लक्षणास्ते च पुष्टि: स्वशरीरावयवानां सर्वदोषचितत्वं तेषां वा पुष्टि: परिपूर्णत्वं तया तुष्टा: सर्वदा प्रमुदिता: । तथा प्रकृष्टशोभाजुष्टा इतरदेवेभ्य: प्रकृष्टा उत्तमा शोभा तया जुष्टा सेविता: इन्द्रा: सन्त इत्यर्थ: ॥३७॥