GP:रत्नकरंड श्रावकाचार - श्लोक 65 - टीका
From जैनकोष
धनश्रीश्रेष्ठिन्या हिंसातो बहुप्रकारं दु:खफलमनुभूतम्। सत्यघोषपुरोहितेनानृतात्। तापसेन चौयात्। आरक्षकेन कोट्टपालेन ब्रह्मणि वृत्त्यभावात्। ततो व्रतप्रभवदु:खादुभवने उपाख्येया दृष्टान्तत्वेन प्रतिपाद्या:। के ते? धनश्रीसत्यघोषौ च। न केवलम् एतौ एव किन्तु तापसारक्षकावपि। तथा तेनैव प्रकारेण श्मश्रुनवनीतो वणिक् यतस्तेनापि परिग्रहनिवृत्त्यभावतो बहुतरदु:खमनुभूतम्। यथाक्रमं उक्तक्रमानतिक्रमेण हिंसादिविरत्यभावे एते उपाख्येया: प्रतिपाद्या:। तत्र धनश्री हिंसातो बहुदु:खं प्राप्ता।
अस्या: कथा
लाटदेशे भृगुकच्छपत्तने राजा लोकपाल:। वणिग्धनपालो भार्या धनश्री मनागपि जीववधेऽविरता। तत्पुत्री सुन्दरी पुत्रो गुणपाल:। अपुत्रकाले धनश्रिया य: पुत्रबुद्ध्या कुण्डलो नाम बालक: पोषित:, धनपाले मृते तेन सह धनश्री: कुकर्मरता जाता। गुणपाले च गुणदोषपरिज्ञानके जाते धनश्रिया तच्छङ्कितया भणित: कुण्डल: प्रसरे गोधनं चारियतुमटव्यां गुणपालं प्रेषयामि, लग्रस्त्वं तत्र तं मारय येनावयोर्निरङ्कुशमवस्थानं भवतीति बु्रवाणां मातरमाकण्र्य सुन्दर्या गुणपालस्य कथितं- अद्य रात्रौ गोधनं गृहीत्वा प्रसरे त्वामटव्यां प्रेषयित्वा कुण्डलहस्तेन माता मारयिष्यत्यत: सावधानो भवेस्त्वमिति। धनश्रिया च रात्रिपश्चिमप्रहरे गुणपालो भणितो हे पुत्र कुण्डलस्य शरीरं विरूपकं वर्तते अत: प्रसरे गोधनं गृहीत्वाद्यत्वं व्रजेति। स च गोधनमटव्यां नीत्वा काष्ठं च वस्त्रेण पिधाय तिरोहितो भूत्वा स्थित:। कुण्डलेन चागत्य गुणपालोऽयमिति मत्वा वस्त्रप्रच्छादितकाष्ठेघात: कृतो गुणपालेन च स खड्गेन हत्वा मारित:। गृहे आगतो गुणपालो धनश्रिया पृष्ट: ‘क्व रे कुण्डल:’ तेनोक्तं कुण्डलवार्तामयं खड्गोऽभिजानाति। ततो रक्तलिप्तं बाहुमालोक्य स तेनैव खड्गेन मारित:। तं च मारयन्तीं धनश्रियं दृष्ट्वा सुन्दर्या मुशलेन सा हता। कोलाहले जाते कोट्टपालैर्धनश्रीर्धृत्वा राज्ञोऽग्रे नीता। राज्ञा च गर्दभारोहणे कर्णनासिकाछेदनादिनिग्रहे कारिते मृत्वा दुर्गतिं गतेति प्रथमाव्रतस्य।
सत्यघोषोऽनृताद्बहुदु:खं प्राप्त:।
इत्यस्य कथा
जम्बूद्वीपे भरतक्षेत्रे सिंहपुरे राजा सिंहसेनो राज्ञी रामदत्ता, पुरोहित: श्रीभूति:। स ब्रह्मसूत्रे कर्तिकां बध्वा भ्रमति। वदति च यद्यसत्यं ब्रवीमि तदाऽनया कर्तिकया निजजिह्वाच्छेदं करोमि। एवं कपटेन वर्तमानस्य तस्य सत्यघोष इति द्वितीयं नाम सञ्जातम्। लोकाश्च विश्वस्तास्तत्पाश्र्वे द्रव्यं धरन्ति च। तद्द्रव्यं किञ्चित्तेषां समप्र्य स्वयं गृöाति। पूत्कर्तु बिभेति लोक:। न च पूत्कृतं राजा शृणोति। अथैकदा पद्मखण्डपुरादागत्य समुद्रदत्तो वणिक्पुत्रस्तत्र सत्यघोषपाश्र्वेऽनर्घाणि पञ्चमाणिक्यानि धृत्वा परतीरे द्रव्यमुपार्जयितुं गत:। तत्र च तदुपाज्र्य व्याघुटित: स्फुटितप्रवहण एकफलकेनोत्तीर्य समुद्रं धृतमाणिक्यवाञ्छया सिंहपुरे सत्यघोषसमीपमायात:। तं च रङ्कसमानमागच्छन्तमालोक्य तन्माणिक्यहरणार्थिना सत्यघोषेण प्रत्ययपूरणार्थं समीपोपविष्टपुरुषाणां कथितम्। अयं पुरुष: स्फुटितप्रवहण: ततो ग्रहिलो जातोऽत्रागत्य माणिक्यानि याचिष्यतीति। तेनागत्य प्रणम्य चोक्तं भो सत्यघोषपुरोहित! ममार्थोपार्जनार्थं गतस्योपार्जितार्थस्य महाननर्थो जात इति मत्वा यानि मया तव रत्नानि धर्तुं समर्पितानि तानीदानीं प्रसादं कृत्वा देहि, येनात्मानं स्फुटितप्रवहणात् गतद्रव्यं समुद्धरामि। तद्वचनमाकण्र्य कपटेन सत्यघोषेण समीपोपविष्टा जना भणिता मया प्रथमं यद् भणितं तद् भवतां सत्यं जातम्। तैरुक्तं भवन्त एव जानन्त्ययं ग्रहिलोऽस्मात् स्थानान्नि:सार्यतामित्युक्त्वा तै: समुद्रदत्तो गृहान्नि:सारित: ग्रहिल इति भण्यमान:। पत्तने पूत्कारं कुर्वन् ममानघ्र्यपञ्चमाणिक्यानि सत्यघोषेण गृहीतानि। तथा राजगृहसमीपे चिञ्चावृक्षमारुह्य पश्चिमरात्रे पूत्कारं कुर्वन् षण्मासान् स्थित:। तां पूत्कृतिमाकण्र्य रामदत्तया भणित:। सिंहसेन:- देव! नायं पुरुष: ग्रहिल:। राज्ञापि भणितं किं सत्यघोषस्य चौर्यं सम्भाव्यते? पुनरुक्तं राज्ञ्या देव! सम्भाव्यते तस्य चौर्यं यतोऽयमेतादृशमेव सर्वदा वचनं ब्रवीति। एतदाकण्र्य भणितं राज्ञा यदि सत्यघोषस्यैतत् सम्भाव्यते तदा त्वं परीक्षयेति। लब्धादेशया रामदत्तया सत्यघोषो राजसेवार्थमागच्छन्नाकार्यं दृष्ट:- किं बृहद्वेलायामागतोऽसि? तेनोक्तं- मम ब्राह्मणीभ्राताद्य प्राघूर्णक: समायातस्तं भोजयतो बृहद्वेला लग्रेति। पुनरप्युक्तं तया- क्षणमेकमत्रोपविश। ममातिकौतुकं जातम्। अक्षक्रीडां कुर्म:। राजापि तत्रैवागतस्तेनाप्येवं कुर्वित्युक्तम्। ततोऽक्षद्यूते क्रीडया सञ्जाते रामदत्तया निपुणमतिविलासिनी कर्णे लगित्वा भणिता सत्यघोष: पुरोहितो राज्ञीपाश्र्वे तिष्ठति तेनाहं ग्रहिलमाणिक्यानि याचितुं प्रेषितेति तद्ब्राह्मण्यग्रे भणित्वा तानि याचयित्वा च शीघ्रमागच्छेति। ततस्तया गत्वा याचितानि। तद्ब्राह्मण्या च पूर्वं सुतरां निषिद्धया न दत्तानि। तद्विलासिन्या चागत्य देवीकर्णे कथितं सा न ददातीति। ततो जितमुद्रिकां तस्य साभिज्ञानं दत्त्वा पुन: प्रेषिता तथापि तया न दत्तानि। ततस्तस्य कर्तिकायज्ञोपवीतं जितं साभिज्ञानं दत्तं दर्शितं च तया। ब्राह्मण्या तद्दर्शनात्तुष्टया भीतया च समर्पितानि माणिक्यानि तद्विलासिन्या:। तया च रामदत्ताया: समर्पितानि। तया न राज्ञो दर्शितानि। तेन च बहुमाणिक्यमध्ये निक्षेप्याकार्य च ग्रहिलो भणित: रे निजमाणिक्यानि परिज्ञाय गृहाण। तेन च तथैव गृहीतेषु तेषु राज्ञा रामदत्तया च वणिक्पुत्र: प्रतिपन्न:। ततो राज्ञा सत्यघोष: पृष्ट:- इदं कर्म त्वया कृतमिति। तेनोक्तं देव! न करोमि, किं ममेदृशं कर्तुं युज्यते? ततोऽतिरुष्टेन तेन राज्ञा तस्य दण्डत्रयं कृतम्। गोमयभृतं भाजनत्रयं भक्षय, मल्लमुष्टिघातत्रयं वा सहस्व, द्रव्यं वा सर्वं देहि। तेन च पर्यालोच्य गोमयं खादितुमारब्धम्। तदशक्तेन मुष्टिघात: सहितुमारब्ध:। तदशक्तेन द्रव्यं दातुमारब्धम्। एवं दण्डत्रयमनुभूय मृत्वातिलोभवशाद्राजकीयभाण्डागारे अगन्धनसर्पो जात:। तत्रापि मृत्वा दीर्घसंसारी जात इति द्वितीयाव्रतस्य।
तापसश्चौर्याद्बहुदु:खं प्राप्त:।
इत्यस्य कथा
वत्सदेशे कौशाम्बीपुरे राजा सिंहरथो राज्ञी विजया। तत्रैकश्चौर: कोटिल्येन तापसो भूत्वा परभूमिमस्पृशदवलम्बमान शिक्यस्थो दिवसे पञ्चाग्रिसाधनं करोति। रात्रौ च कौशाम्बीं मुषित्वा तिष्ठति। एकदा महाजनान्मुष्टं नगरमाकण्र्य राज्ञा कोट्टपालो भणितो रे सप्तरात्रमध्ये चौरं निजशिरो वाऽऽनय। ततश्चौरमलभमानश्चिन्तापर: तलारोऽपराह्ने बुभुक्षितब्राह्मणेन केनचिदागत्य भोजनं प्रार्थित:। तेनोक्तं- हे ब्राह्मण! अच्छान्दसोऽसि मम प्राणसन्देहो वर्तते त्वं च भोजनं प्रार्थयसे। एतद्वचनमाकण्र्य पृष्टं ब्राह्मणेन कुतस्ते प्राणसन्देह:? कथितं च तेन। तदाकण्र्य पुन: पृष्टं ब्राह्मणेन- अत्र किं कोऽप्यतिनिस्पृहवृत्तिपुरुषोऽप्यस्ति? उक्तं तलारेण- अस्ति विशिष्टस्तपस्वी, न च तस्यैतत् सम्भाव्यते। भणितं ब्राह्मणेन- स एव चौरो भविषति अतिनिस्पृहत्वात्। श्रूयतामत्र मदीया कथा- मम ब्राह्मणी महासती परपुरुषशरीरं न स्पृशतीति निजपुत्रस्याप्यतिकुक्कुटात् कर्पटेन सर्वं शरीरं प्रच्छाद्य स्तनं ददाति। रात्रौ तु गृहपिण्डारेण सह कुकर्म करोति। तद्दर्शनात् सञ्जातवैराग्योऽहं संवलार्थं सुवर्णशलाकां वंशयष्टिमध्ये निक्षिप्य तीर्थयात्रायां निर्गत:। अग्रे गच्छतश्च ममैकबटुको मिलितो न तस्य विश्वासं गच्छाम्यहं यष्टिरक्षां यत्नत: करोमि। तेनाकलिता सा यष्टि: सगर्भेति। एकदा रात्रौ कुम्भकारगृहे निद्रां कृत्वा दूराद्गत्वा तेन निजमस्तके लग्रं कुथितं तृणमालोक्यातिकुक्कुटेन ममाग्रतो, हा हा मया परतृणमदत्तं ग्रसितमित्युक्त्वा व्याघुट्य तृणं तत्रैव कुम्भकारगृहे निक्षिप्य दिवसावसाने कृतभोजनस्य ममागत्य मिलित:। भिक्षार्थं गच्छतस्तस्यातिशुचिरयमिति मत्वा विश्वसितेन मया यष्टि: कुक्कुरादिनिवारणार्थं समर्पिता। तां गृहीत्वा स गत:। ततो मया महाटव्यां गच्छतातिवृद्धपक्षिणोऽतिकुर्कुटं दृष्टम्। यथा एकस्मिन् महति वृक्षे मिलिता: पक्षिगणो रात्रावेकेनातिवृद्धपक्षिणा निजभाषया भणितो रे रे पुत्रा:! अहं अतीव गन्तुं न शक्रोमि। बुभुक्षितमना: कदाचिद्भवत्पुत्राणां भक्षणं करोमि चित्तचापल्यादतो मम मुखं प्रभाते बध्वा सर्वेऽपि गच्छन्तु। तैरुक्तं हा हा तात! पितामहस्त्वं किं तवैतत् सम्भाव्यते? तेनोक्तं- ‘‘बुभुक्षित: किं न करोति पापम्’’इति। एवं प्रभाते तस्य पुनर्वचनात् तन्मुखं बद्ध्वा ते गता:। स च बद्धो गतेषु चरणाभ्यां बन्धनं मुखे संयोज्यातिकुकुटेन क्षीणोदरो भूत्वा स्थित:। ततो नगरगतेन चतुर्थमतिकुर्कुटं दृष्टं मया। यथा तत्र नगरे एकश्चौरस्तपस्तिरूवं धृत्वा बृहच्छिलां च मस्तकस्योपरि हस्ताभ्यामूध्र्वं गृहीत्वा नगरमध्ये तिष्ठति दिवा रात्रौ चातिकुर्कुटेन ‘अपसर जीव पादं ददामि, अपसर जीव पादं ददामीति’ भणन् भ्रमति। ‘अपसर जीवेति’ चासी भक्तसर्वजनैर्भण्यते। स च गर्तादिविजनस्थाने दिगवलोकनं कृत्वा सुवर्णभूषितमेकाकिनं प्रणमन्तं तया शिलया मारयित्वा तद्रव्यं गृöाति। इत्यतिकुर्कुटचतुष्टयमालोक्य मया श£ोकोऽयं कृत:-
अबालस्पर्शका नारी ब्राह्मणोऽतृणहिंसक:।
वने काष्ठमुख: पक्षी पुरेऽपसरजीवक:॥ इति
इति कथयित्वा तलारं धीरयित्वा सन्ध्यायां ब्राह्मण: शिक्यतपस्विसमीपं गत्वा तपस्विप्रतिचारकैर्निर्घाट्यमानोऽपि रात्र्यन्धो भूत्वा तत्र पतित्वैकदेशे स्थित:। ते च प्रतिचारका: रात्र्यन्धपरीक्षणार्थं तृणकट्टिकाङ्गुल्यादिकं तस्याक्षिसमीपं नयन्ति। स च पश्यन्नपि न पश्यति। बृहद्रात्रौ गुहायामन्धकूपे ध्रियमाणमालोक्य तेषां खादनपानादिकं वालोक्य प्रभाते राज्ञा मार्यमाणस्तलारो रक्षित: तेन रात्रिदृष्टमावेद्य। स शिक्यस्थस्तपस्वी चौरस्तेन बहुकदर्थनादिभि: कदथ्र्यमानो मृत्वा दुर्गतिं गतस्तृतीयाव्रतस्य।
आरक्षिणाऽब्रह्मनिवृत्त्यभावाद्दु:खं प्राप्तम्।
अस्य कथा
आहीरदेशे नासिक्यनगरे राजा कनकरथो राज्ञी कनकमाला, तलारो यमदण्डस्तस्य माता बहुसुन्दरी तरुणरण्डा पुंश्चली। सा एकदा बध्वा धर्तुं समर्पिताभरणं गृहीत्वा रात्रौ सङ्केतितजारपाश्र्वे गच्छन्तो यमदण्डेन दृष्टा सेविता चैकान्ते। तदाभरणं चानीय तेन निजभार्याया दत्तम्। तया च दृष्ट्वा भणितं- ‘मदीयमिदमाभरणं, मया श्वश्रूहस्ते धृतम्। तद्वचनमाकण्र्य तेन चिन्तितं या मया सेविता सा मे जननी भविष्यतीति। ततस्तस्या जारसङ्केतगृहं गत्वा तां सेवित्वा तस्यामासक्तो गृढवृत्त्या तया सह कुकर्मरत: स्थित:। एकदा तद्भार्ययाऽसहनादतिरुष्टया रजक्या: कथितम्। मम भर्ता निजमात्रा सह तिष्ठति। रजक्या च मालाकारिण्या: कथितम्। अतिविश्वस्ता मालाकारिणी च कनकमालाराज्ञीनिमित्तं पुष्पाणि गृहीत्वा गता। तया च पृष्टा सा कुतूहलेन, जानासि हे कामप्यपूर्वां वार्ताम्। तया च तलारद्विष्टतया कथितं राज्ञ्या:, देवि! यमदण्डतलारो निजजनन्या सह तिष्ठति। कनकमालया च राज्ञ: कथितम्। राज्ञा च गूढपुरुषद्वारेण तस्य कुकर्म निश्चित्य तलारो गृहीतो दुर्गतिं गतश्चतुर्थाव्रतस्य।
परिग्रहनिवृत्त्यभावात् श्मश्रुनवनीतेन बहुतरं दु:खं प्राप्तम्।
अस्य कथा
अस्त्योध्यायां श्रेष्ठी भवदत्तो भार्या धनदत्ता पुत्रो लब्धदत्त: वाणिज्येन दूरं गत:। तत्र स्वमुपार्जितं तस्य चौरैर्नीतम्। ततोऽतिनिर्धनेन तेन मार्गे आगच्छता तत्रैकदा गोदुह: तक्रं पातुं याचितम्। तक्रे पीते स्तोकं नवनीतं कूर्चे लग्रमालोक्य गृहीत्वा चिन्तितं तेन वाणिज्यं भविष्यत्यनेन मे, एवं च तत्सञ्चिन्वतस्तस्य श्मश्रुनवनी इति नाम जातम्। एवमेकदा प्रस्थप्रमाणे धृते जाते धृतस्य भाजनं पादान्ते धृत्वा शीतकाले तृणकुटीरकद्वारे अग्रिं च पादान्ते कृत्वा रात्रौ संस्तरे पतित: सञ्चिन्तयन्ति, अनेन घृतेन बहुतरमर्थमुपाज्र्य सार्थवाहो भूत्वा सामन्तमहासामन्तराजाधिराजपदं प्राप्य क्रमेण सकलचक्रवर्ती भविष्यामि यदा, तदा च मे सप्ततलप्रासादे शय्यागतस्य पादान्ते समुपविष्टं स्त्रीरत्नं पादौ मुष्ट्या ग्रहीष्यति न जानासि पादमर्दनं कर्तुमिति स्नेहेन भणित्वा स्त्रीरत्नमेवं पादेन ताडयिष्यामि, एवं चिन्तयित्वा तेन चक्रवर्तिरूपाविष्टेन पादेन हत्वा पातितं तद्घृतभाजनं तेन च घृतेन द्वारे संधुक्षितोऽग्रि: सुतरां प्रज्वलित:। ततो द्वारे प्रज्वलिते नि:सर्तुमशक्तो दग्धो मृतो दुर्गतिं गत: इच्छाप्रमाणरहितपञ्चमाव्रतस्य॥ १९॥